छन्दसि अन्यतरस्याम् इति वर्तते। लिङर्थे, यत्र लिङ् विधीयते विध्यादिः, हेतुहेतुमतोर् लिङ्
३।३।१५६ इत्येवम् आदिः, तत्र छन्दसि विषये ऽन्यतरस्यां लेट् प्रत्ययो भवति। जोषिषत् तारिषत्। मन्दिषत्। नेता इन्द्रो नेषत्। तक्षिषत्। पताति दिद्युत्। प्रजापतिरुदधिं च्यावयाति।
"नेषत्"। "तक्षिषत्" इति। नयतेस्तक्षते श्च लेट्, तिप्, "इतश्च लोपः परस्म #ऐपदेषु" )३।४।९७) इतीकारलोपः, "सिब् बहुलं लेटि"
३।१।३४ इति सिप्, "लेटोऽडाटौ"
३।४।९४ इत्याट्। तक्षिषदित्यत्र "आर्धधातुकस्य"
७।२।३५ इत्यादिनेट्। जोषिषदित्यादीन्युदाहरणानि "सिब् बहुलं लेटि"( ३।१।३४) इत्यत्र व्युत्पादितानि॥